Class 10th sanskrat trimasik pepar 2026-27 pdf download
त्रैमासिक परीक्षा 2026-27
कक्षा - 10वीं | विषय - संस्कृतम्
समय: 3 घण्टा | पूर्णाङ्क: 75
निर्देशाः -
सर्वे प्रश्नाः अनिवार्यः सन्ति।
प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः।
प्र. 1. उचितं विकल्पं चित्वा लिखत - (1 × 6 = 6)
(i) बालिकाशब्दस्य चतुर्थी विभक्तेः रुपम् अस्ति-
(अ) बालिकायै (ब) बालिकया (स) बालिकाम् (द) बालिकायाः
(ii) अधोलिखितेषु अव्ययम् न अस्ति-
(अ) एव (ब) अद्य (स) सर्वत्र (द) छात्रः
(iii) 'रामैः' इत्यत्र विभक्तिः अस्ति-
(अ) प्रथमा (ब) द्वितीया (स) तृतीया (द) चतुर्थी
(iv) 'रमायाम्' पदे विभक्तिः अस्ति-
(अ) तृतीया (ब) द्वितीया (स) सप्तमी (द) षष्ठी
(v) 'त्वं प्रतिदिनं कुत्र गच्छसि' इत्यत्र अव्ययम् अस्ति-
(अ) त्वम् (ब) कुत्र (स) प्रतिदिनम् (द) गच्छसि
(vi) लताशब्दस्य चतुर्थी विभक्तेः रुपम् अस्ति-
(अ) लतया (ब) लतयोः (स) लतायै (द) लताम्
प्र. 2. कोष्ठकात् चित्वा रिक्तस्थानानि पूरयत - (1 × 6 = 6)
(i) 'अद्यैव' पदे .......... सन्धिः अस्ति। (यणसन्धिः / वृद्धिसन्धिः)
(ii) 'यदि + अपि' सन्धियुक्तपदं .......... भवति। (यद्यपि / यदपि)
(iii) 'कर्मधारय' समासस्य उदाहरणं .......... अस्ति। (नीलोत्पलम् / सप्तशती)
(iv) 'सुपुरुषः' पदे समासः .......... अस्ति। (कर्मधारयः / अव्ययीभावः)
(v) 'अनुरूपम्' पदे समासः .......... अस्ति। (बहुव्रीहिः / अव्ययीभावः)
(vi) 'चंद्रशेखरः' पदे समासः .......... अस्ति। (द्वन्द्वः / बहुव्रीहिः)
प्र. 3. उचितं युग्ममेलनं कुरुत - (1 × 6 = 6)
'अ' स्तम्भः
'ब' स्तम्भः
(क) पश्यति
(i) अव
(ख) पठ् धातोः
(ii) लङ् लकारः
(ग) पठसि
(iii) दृश् धातोः
(घ) भूतकाले
(iv) उप
(ङ) अवतरति
(v) मध्यमपुरुषः
(च) उपहरति
(vi) पठति
प्र. 4. एकपदेन उत्तरम् लिखत - (1 × 6 = 6)
(i) सर्वदा सर्वकार्येषु का बलवती ?
(ii) गुणी किं वेत्ति ?
(iii) 'हसनीयम्' इत्यस्मिन् पदे प्रत्ययः अस्ति?
(iv) 'गन्तव्यम्' इत्यस्मिन् पदे प्रत्ययः अस्ति?
(v) 'यजमानः' इत्यस्मिन् पदे प्रत्ययः अस्ति?
(vi) 'कृतवान्' इत्यस्मिन् पदे प्रत्ययः अस्ति?
प्र. 5. शुद्धवाक्यानां समक्षं 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत - (1 × 6 = 6)
(i) 'वनम्' पदस्य पर्यायपदं कान्तारम् अस्ति।
(ii) 'पत्नी' पदस्य पर्यायपदं भार्या न अस्ति।
(iii) 'शीघ्रम्' पदस्य पर्यायपदं सत्वरम् नास्ति।
(iv) 'तनयः' पदस्य पर्यायपदं सुतः अस्ति।
(v) 'सुकरम्' पदस्य विलोमपदं दुर्वहम् अस्ति।
(vi) 'निर्मलम्' पदस्य विलोमपदं समलम् अस्ति।
प्र. 6. अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषायाम् लिखत - (2 × 5 = 10)
प्र. 6. अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
अथवा
कविः किमर्थं प्रकृतेः शरणम् इच्छति?
प्र. 7. कुशलवयोः वंशस्य कर्ता कः?
अथवा
कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
प्र. 8. वसन्तस्य गुणं कः जानाति?
अथवा
अस्माभिः कीदृशः वृक्षः सेवितव्यः?
प्र. 9. इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
अथवा
निःसंशयं कः कृतान्तः मन्यते?
प्र. 10. रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
अथवा
माता सुरभिः किमर्थम् अश्रुणि मुञ्चति स्म?
प्र. 11. अधोलिखितानि वाक्यानि कः कं प्रति कथयति (कोऽपि द्वौ) - (2)
(i) विरम विरम आत्मश्लाघाया।
(ii) सव्यवधानं न चारित्र्यलोपाय।
(iii) गच्छ वत्से! सर्वं भद्रं जायते।
प्र. 12. रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत (कोऽपि द्वौ) - (2)
(i) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
(ii) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(iii) धेनूनाम् माता सुरभिः आसीत्।
प्र. 13. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् एकम् सुभाषितम् लिखत - (2)
प्र. 14. वाच्य-परिवर्तनम् कुरुत (कोऽपि द्वौ) - (2)
(i) बालिका फलं खादति। (कर्मवाच्ये)
(ii) गणेशः क्रीडति। (भाववाच्ये)
(iii) कृष्णः पुस्तकम् पठति। (कर्मवाच्ये)
प्र. 15. अधोलिखितेषु अशुद्धवाक्येषु शुद्धिम् कुरुत (कोऽपि द्वौ) - (2)
(i) त्वम् कुत्र गच्छति।
(ii) बालकः पुस्तकं पठन्ति।
(iii) नदी पर्वतेन उद्भवति।
प्र. 16. प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत (कोऽपि चत्वारः) - (1/2 × 4 = 2)
(सदा, आत्मश्लाघाहीनः, अहिभुक्, एव, अत्र, यत्र)
(i) उलूकः .......... पदनिर्लिप्तः चासीत्।
(ii) मयूरः .......... इति नाम्नाऽपि ज्ञायते।
(iii) .......... जीवनं दुर्वहम् अस्ति।
(iv) पर्यावरणस्य संरक्षणम् .......... प्रकृतेः आराधना।
(v) .......... हरीतिमा तत्र शुचिपर्यावरणम्।
प्र. 17. प्रदत्तवाक्यैः घटनाक्रमानुसारं लिखत - (1/2 × 4 = 2)
(१) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(२) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(३) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(४) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।
प्र. 18. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत - (3)
इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः। निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी। अन्योऽपि बुद्धिमाल्लोके मुच्यते महतो भयात्॥ भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह- "भवान् कुतः भयात् पलायितः?"
प्रश्नाः -
(क) व्याघ्रो कथं नष्टः?
(ख) सा भामिनी व्याघ्रस्य भयाद् कथं विमुक्ता?
(ग) भयाकुलं व्याघ्रं दृष्ट्वा कः हसन्नाह?
प्र. 19. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत - (3)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥
प्रश्नाः -
(क) किं मनुष्याणां शरीरस्थो महान् रिपुः?
(ख) आलस्यं हि केषां शरीरस्थो महान् रिपुः?
(ग) कस्य समो बन्धुः नास्ति?
प्र. 20. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत - (3)
कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृशीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
प्रश्नाः -
(क) कृषकः काभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्?
(ख) तयोः बलीवर्दयोः एकः कीदृशः आसीत्?
(ग) मातुः सुरभेः नेत्राभ्यां कानि आविरासन्?
प्र. 21. अधोलिखितं अपठितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृत भाषायाम् लिखत - (4)
रामायणं मम अभीष्टतमः ग्रन्थः। अस्य लौकिककाव्यस्य प्रादुर्भावः वैदिकवाङ्गयानन्तरम् अभवत्। अस्य ग्रन्थस्य रचना आदिकविना वाल्मीकिना कृता। अस्मिन् महाकाव्ये भगवतो रामचन्द्रस्य चरितं वर्णितं वर्तते। अस्मिन् काव्ये सप्तकाण्डानि सन्ति। दशरथनन्दनो रामो मानवतायाः आदर्शभूतः। त्रेतायुगे जातस्य परमादर्शभूतस्य रघुवंशस्य विविधाः कथाः जनैः सावधानतया कथ्यन्ते श्रूयन्ते च। महर्षिणा वाल्मीकिना रघुवंशचूडामणेः श्रीरामभद्रस्य सर्वा कथा रामायणे विलिखिता।
प्रश्नाः -
(क) रामायणस्य रचना केन कृता?
(label) रामायणस्य प्रादुर्भावः कदा अभवत्?
(ग) रामायणे कस्य चरितं वर्णितम् अस्ति?
(घ) काः कथाः जनैः सावधानतया श्रूयन्ते?
प्र. 22. स्वप्राचार्यस्य कृते शुल्क-क्षमापनार्थं प्रार्थना पत्रं लिखत। - (4)
अथवा
अग्रजस्य विवाहे आमंत्रयितुं स्व-मित्रं प्रति पत्रं लिखत।
प्र. 23. अधोलिखितेषु एकं विषयं स्वीकृत्य विंशत्यधिक-शतशब्देषु (120) संस्कृत भाषायां निबंधं लिखत - (4)
(क) संस्कृतभाषायाः महत्वम्
(ख) अस्माकं भारत-देशः
(ग) पर्यावरणम्
(घ) महाकविः कालिदासः

Post a Comment